CBSE Class 10 Sanskrit Shemushi Chapter 1 Suchiparyawararam शुचिपर्यावरणम् NCERT Solutions
1. एकपदेन उत्तरं लिखत
(क) अत्र जीवितं कीदृशं जातम् ?
उत्तरम् : दुष्करम्
(ख) अनिशं महानगरमध्ये किं प्रचलति
उत्तरम् : कालायसचक्रम्
(ग) कुत्सितवस्तुमिश्रितं किम् अस्ति ?
उत्तरम् : भक्ष्यम्
(घ) अहं कस्मै जीवनं कामये ?
उत्तरम् : मानवाय
(ङ) केषां माला रमणीया ?
उत्तरम् : हरिततरूणां । ललितलतानां
2.अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम् :
धरातले दुष्करं जीवितं जातम् अतः कविः प्रकृतेः शरणम् इच्छति ।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम् :
मार्गेषु यानानां अनन्ता: पङ्क्तय: सन्ति अत: महानगरेषु संसरणं कठिनं वर्तते ।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम् :
अस्माकं पर्यावरणे वायुमण्डलं, जलं, भक्ष्यं, धरातलं च दूषितम् अस्ति ।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति ?
उत्तरम् :
कविः नगरात् बहुदूरं ग्रामान्ते एकान्ते वने सञ्चरणं कर्तुम् इच्छति ।
(ङ) स्वास्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम् :
स्वास्थजीवनाय खगकुलकलरव-गुञ्जितवनदेशस्य वातावरणे धमणीयम् ।
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम् :
अन्तिमे पद्यांशे कवेः कामना अस्ति यत् पाषाणी सभ्यता निसर्गे समाविष्टा न
स्यात् मानवाय च जीवनस्य कामना अस्ति ।
3.सन्धि/सन्धिविच्छेदं कुरुत-
(क) प्रकृतिः + …… = प्रकृतिरेव
(ख) स्यात् + …... + ……. = स्यान्नैव
(ग) …… + अनन्ता = हयनन्ताः
(घ) बहिः + अन्तः + जगति = ……..
(ङ) …… + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = ……
(छ) धूमम् + मुञ्चति = ……
उत्तरम् :
(क) प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + न + एव = स्यान्नैव
(ग) हि + अनन्ता = हयनन्ताः
(घ) बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = संचरणम्/सञ्चरणम्
(छ) धूमम् + मुञ्चति = धूमंमुञ्चति/धूमम्मुञ्चति
4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानी वायुमण्डलं …… प्रदूषितमस्ति।
(ख) …...... जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् …… लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् …… प्रकृतेः आराधना।
(ड) …… समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये …… गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा …… शुचि पर्यावरणम्।
उत्तरम् :
(क) इदानी वायुमण्डलं भृशम् प्रदूषितमस्ति।
(ख) अत्र जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
(ड) सदा समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये बहि: गमनमेव उचितं भवति।
(छ) यत्र हरीतिमा तत्र शुचि पर्यावरणम्।
5. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत-
(क) सलिलम् ………
(ख) आमम् ……...
(ग) वनम् ………
(घ) शरीरम् ………
(ङ) कुटिलम् ………
(च) पाषाण: ………
उत्तरम् :
(क) सलिलम् जलम्
(ख) आमम् रसालम्
(ग) वनम् कान्तारम्
(घ) शरीरम् तनुः
(ङ) कुटिलम् वक्रम्
(च) पाषाण: प्रस्तरम्
5. (आ) अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत-
(क) सुकरम् ………
(ख) दूषितम् ………
(ग) गृहणन्ती ………
(घ) निर्मलम् ………
(ङ) दानवाय ………
(च) सान्ता: ………
उत्तरम् :
(क) सुकरम् दुर्वहम्
(ख) दूषितम् शुद्धम्
(ग) गृहणन्ती मुञ्चन्ती
(घ) निर्मलम् समलम्
(ङ) दानवाय मानवाय
(च) सान्ता: अनन्ता:
6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि लिखत-
विग्रह पदानि समस्तपद समासनाम
(क) मलेन सहितम् ……… अव्ययीभाव
(ख) हरिताः च ये तरवः (तेषां) .……… कर्मधारय
(ग) ललिताः च याः लताः (तासाम्) ……… कर्मधारय
(घ) नवा मालिका ………… कर्मधारय
(ङ) धृतः सुखसन्देशः येन (तम्) ……… बहुव्रीहि
(च) कज्जलम् इव मलिनम् ………. कर्मधारय
(छ) दुर्दान्तैः दशनैः ...…..... कर्मधारय
उत्तरम् :
विग्रह पदानि समस्तपद समासनाम
(क) मलेन सहितम् समलम् अव्ययीभाव
(ख) हरिताः च ये तरवः (तेषां) हरिततरुणाम् कर्मधारय
(ग) ललिताः च याः लताः (तासाम्) ललितलतानाम् कर्मधारय
(घ) नवा मालिका नवमालिका कर्मधारय
(ङ) धृतः सुखसन्देशः येन (तम्) धृतसुखसंदेशम् बहुव्रीहि
(च) कज्जलम् इव मलिनम् कज्जलमलिनम् कर्मधारय
(छ) दुर्दान्तैः दशनैः दुर्दान्तदशनै: कर्मधारय
7.रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति ।
उत्तरम् :
(क) शकटीयानम् कीदृशम् धूमं मुञ्चति ?
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति ।
उत्तरम् :
(ख) उद्याने केषाम् कलरवं चेतः प्रसादयति ?
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति ।
उत्तरम् :
(ग) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ।
उत्तरम् :
(घ) कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ?
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते ।
उत्तरम् :
(ङ) कस्या: सन्निधौ वास्तविकं सुखं विद्यते ?
Post a Comment